सिद्धिचण्डी
1..🌷🌷सिद्धिचण्डी महाविद्या सहस्राक्षर मन्त्र🌷🌷
2....🌷🌷🌷श्री चण्डिका मालामन्त्र प्रयोगः ॥ 🌷🌷
3.🌷🌷तीव्रचण्डिकास्तोत्रम् 🌷🌷🌷🌷
4...🌷🌷सप्तशतीसारभूतदुर्गास्तोत्रम् 🌷🌷🌷
5...🌷🌷🌷🌷श्रीचण्डीपाठः 🌷🌷🌷🌷🌷
6..🌷🌷🌷🌷श्रीचण्डीरहस्यम् 🌷🌷🌷🌷🌷
7...🌷🌷🌷🌷 नवार्ण मालामंत्र 🌷🌷🌷🌷
☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️
1..🌷🌷सिद्धिचण्डी महाविद्या सहस्राक्षर मन्त्र🌷🌷
वन्दे परागम-विद्यां, सिद्धि-चण्डीं सङ्गिताम् । महा-सप्तशती-मन्त्र-स्वरुपां सर्व-सिद्धिदाम् ।।
विनियोगः ॐ अस्य सर्व-विज्ञान-महा-राज्ञी-सप्तशती रहस्याति-रहस्य-मयी-परा-शक्ति श्रीमदाद्या-भगवती-सिद्धि-चण्डिका-सहस्राक्षरी-महा-विद्या-मन्त्रस्य श्रीमार्कण्डेय-सुमेधा ऋषि, गायत्र्यादि नाना-विधानि छन्दांसि, नव-कोटि-शक्ति-युक्ता-श्रीमदाद्या-भगवती-सिद्धि-चण्डी देवता, श्रीमदाद्या-भगवती-सिद्धि-चण्डी-प्रसादादखिलेष्टार्थे जपे विनियोगः ।
ऋष्यादिन्यासः श्रीमार्कण्डेय-सुमेधा ऋषिभ्यां नमः शिरसि, गायत्र्यादि नाना-विधानि छन्देभ्यो नमः मुखे, नव-कोटि-शक्ति-युक्ता-श्रीमदाद्या-भगवती-सिद्धि-चण्डी देवतायै नमः हृदि, श्रीमदाद्या-भगवती-सिद्धि-चण्डी-प्रसादादखिलेष्टार्थे जपे विनियोगाय नमः सर्वाङ्गे ।
महाविद्यान्यासः ॐ श्रीं नमः सहस्रारे । ॐ हें नमः भाले। क्लीं नमः नेत्र-युगले। ॐ ऐं नमः कर्ण-द्वये। ॐ सौं नमः नासा-पुट-द्वये। ॐ ॐ नमो मुखे। ह्रीं ॐ नमः कण्ठे। ॐ श्रीं नमो हृदये। ॐ ऐं नमो हस्त-युगे। ॐ क्लें नमः उदरे। ॐ सौं नमः कट्यां। ॐ ऐं नमो गुह्ये। ॐ क्लीं नमो जङ्घा-युगे। ॐ ह्रीं नमो जानु-द्वये। ॐ श्रीं नमः पादादि-सर्वांगे।। ॐ या माया मधु-कैटभ-प्रमथनी, या माहिषोन्मूलनी, या धूम्रेक्षण-चण्ड-मुण्ड-दलनी, या रक्त-बीजाशनी। शक्तिः शुम्भ-निशुम्भ-दैत्य-मथनी, या सिद्ध-लक्ष्मी परा, सा देवी नव-कोटि-मूर्ति-सहिता, मां पातु विश्वेश्वरी।। ॐ ऐं ह्रीं श्रीं ह्मौं श्रीं ह्रीं क्लौं ऐं सौं ॐ ह्रीं श्रीं ऐं क्लीं सौं ऐं क्लीं ह्रीं श्रीं जय जय महा-लक्ष्मि जगदाद्ये बीज-सुरासुर-त्रिभुवन-निदाने दयांकुरे सर्व-तेजो-रुपिणि महा-महा-महिमे महा-महा-रुपिणि महा-महा-माये महा-माया-स्वरुपिणि विरञ्चि-संस्तुते ! विधि-वरदे सच्चिदानन्दे विष्णु-देह-व्रते महा-मोहिनि मधु-कैटभ-जिह्वासिनि नित्य-वरदान-तत्परे ! महा-स्वाध्याय-वासिनि महा-महा-तेज्यधारिणि ! सर्वाधारे सर्व-कारण-करणे अचिन्त्य-रुपे ! इन्द्रादि-निखिल-निर्जर-सेविते ! साम-गानं गायन्ति पूर्णोदय-कारिणि! विजये जयन्ति अपराजिते सर्व-सुन्दरि रक्तांशुके सूर्य-कोटि-शशांकेन्द्र-कोटि-सुशीतले अग्नि-कोटि-दहन-शीले यम-कोटि-क्रूरे वायु-कोटि-वहन-सुशीतले ! ॐ-कार-नाद-बिन्दु-रुपिणि निगमागम-मार्ग-दायिनि महिषासुर-निर्दलनि धूम्र-लोचन-वध-परायणे चण्ड-मुण्डादि-सिरच्छेदिनि रक्त-बीजादि-रुधिर-शोषणि रक्त-पान-प्रिये महा-योगिनि भूत-वैताल-भैरवादि-तुष्टि-विधायनि शुम्भ-निशुम्भ-शिरच्छेदिनि ! निखिला-सुर-बल-खादिनि त्रिदश-राज्य-दायिनि सर्व-स्त्री-रत्न-रुपिणि दिव्य-देह-निर्गुणे सगुणे सदसत्-रुप-धारिणि सुर-वरदे भक्त-त्राण-तत्परे। वर-वरदे सहस्त्राक्षरे अयुताक्षरे सप्त-कोटि-चामुण्डा-रुपिणि नव-कोटि-कात्यायनी-रुपे अनेक-लक्षालक्ष-स्वरुपे इन्द्राग्नि ब्रह्माणि रुद्राणि ईशानि भ्रामरि भीमे नारसिंहे ! त्रय-त्रिंशत्-कोटि-दैवते अनन्त-कोटि-ब्रह्माण्ड-नायिके चतुरशीति-मुनि-जन-संस्तुते ! सप्त-कोटि-मन्त्र-स्वरुपे महा-काले रात्रि-प्रकाशे कला-काष्ठादि-रुपिणि चतुर्दश-भुवन-भावाविकारिणि गरुड-गामिनि ! कों-कार हों-कार ह्रीं-कार श्रीं-कार दलेंकार जूँ-कार सौं-कार ऐं-कार क्लें-कार ह्रीं-कार ह्रौं-कार हौं-कार-नाना-बीज-कूट-निर्मित-शरीरे नाना-बीज-मन्त्र-राग-विराजते ! सकल-सुन्दरी-गण-सेवते करुणा-रस-कल्लोलिनि कल्प-वृक्षाधिष्ठिते चिन्ता-मणि-द्वीपेऽवस्थिते मणि-मन्दिर-निवासे ! चापिनि खडिगनि चक्रिणि गदिनि शंखिनि पद्मिनि निखिल-भैरवाधिपति-समस्त-योगिनी-परिवृते ! कालि कङ्कालि तोर-तोतले सु-तारे ज्वाला-मुखि छिन्न-मस्तके भुवनेश्वरि ! त्रिपुरे लोक-जननि विष्णु-वक्ष-स्थलालङ्कारिणि ! अजिते अमिते अमराधिपे अनूप-सरिते गर्भ-वासादि दुःखापहारिणि मुक्ति-क्षेमाधिषयनि शिवे शान्ति-कुमारि देवि ! सूक्त-दश-शताक्षरे चण्डि चामुण्डे महा-कालि महा-लक्ष्मि महा-सरस्वति त्रयी-विग्रहे ! प्रसीद-प्रसीद सर्व-मनोरथान् पूरय सर्वारिष्ट-विघ्नं छेदय-छेदय, सर्व-ग्रह-पीडा-ज्वरोग्र-भयं विध्वंसय-विध्वंसय, सर्व-त्रिभुवन-जातं वशय-वशय, मोक्ष-मार्गं दर्शय-दर्शय, ज्ञान-मार्गं प्रकाशय-प्रकाशय, अज्ञान-तमो नाशय-नाशय, धन-धान्यादि कुरु-कुरु, सर्व-कल्याणानि कल्पय-कल्पय, मां रक्ष-रक्ष, सर्वापद्भ्यो निस्तारय-निस्तारय। मम वज्र-शरीरं साधय-साधय, ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे नमोऽस्तु ते स्वाहा।।
ॐ ऐं ह्रीं क्लीं नमो दैव्यै महा-देव्यै, शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै, नियताः प्रणताः स्म ताम्।।
ॐ ऐं ह्रीं श्रीं सर्व-मंगल-माङ्गल्ये, शिवे सर्वार्थ-साधिके ! शरण्ये त्र्यम्बके गौरि ! नारायणि नमोऽस्तु ते ।।
सर्व-स्वरुपे सर्वेशे, सर्व-शक्ति-समन्विते ! भयेभ्यस्त्राहि नो देवि ! दुर्गे देवि ! नमोऽस्तु ते।।
सिद्धि-चण्डी-महा-मन्त्रं, यः पठेत् प्रयतो नरः। सर्व-सिद्धिमवाप्नोति, सर्वत्र विजयी भवेत्।। संग्रामेषु जयेत् शत्रून्, मातंगं इव केसरी। वशयेत् सदा निखिलान्, विशेषेण महीपतीन्।। त्रिकालं यः पठेन्नित्यं, सर्वेश्वर्य-पुरःसरम्। तस्य नश्यन्ति विघ्नानि, ग्रह-पीडाश्च वारणम्।। पराभिचार-शमनं, तीव्र-दारिद्रय-नाशनं। सर्व-कल्याण-निलयं, देव्याः सन्तोष-कारकम्।। सहस्त्रावृत्तितस्तु, देवि ! मनोरथ-समृद्धिदम्। द्वि-सहस्त्रावृत्तितस्तु, सर्व-संकट-नाशनम्।। त्रि-सहस्त्रावृत्तितस्तु, वशयेद् राज-योषितम्। अयुतं प्रपठेद् यस्तु, सर्वत्र चैवातन्द्रितः। स पश्येच्चण्डिकां साक्षात्, वरदान-कृतोद्यमाम्।। इदं रहस्यं परमं, गोपनीयं प्रयत्नतः। वाच्यं न कस्यचित् देवि ! विधानमस्थ सुन्दरि।।
।।श्रीसिद्धिडामरे शिवदेवीसंवादे सहस्त्राक्षरं सिद्धिचण्डीमहाविद्योत्तमाम् सम्पूर्णम्।।
☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️
2....🌷🌷🌷श्री चण्डिका मालामन्त्र प्रयोगः ॥ 🌷🌷
उक्तं चाथर्वणागमसंहितायाम् मंत्रों यथा —
“ॐ ह्रः ॐ सौं ॐ ह्रौं ॐ श्रीं ह्रीं क्लीं श्रीर्जयजय चण्डिका चामुण्डे चण्डिके त्रिदश-मुकुट-कोटि-संघट्टित-चरणारविंदे गायत्रि सावित्रि सरस्वति अहिकृताभरणे भैरव-रूप-धारिणि प्रकटित-दंष्ट्रोग्र-वदने घोरानन-नयने ज्वलज्ज्वाला-सहस्र-परिवृते महाट्टहास-धवलीकृत-दिगन्तरे सर्वयुग-परिपूर्णे कपाल-हस्ते गजाजिनोत्तरीय-भूत-वेताल-परिवृते अकंपित-धराधरे मधु-कैटभ महिषासुर-धूम्रलोचन चण्ड-मुण्ड-रक्तबीज-शुम्भनिशुम्भदैत्यनिकृन्ते कालरात्रि महामाये शिवे नित्ये ॐ ऐं ह्रीं ऐन्द्रि आग्नेयि याम्ये नैर्ऋति वारुणि वायवि कौबेरि ऐशानि ब्रह्म-विष्णु-शिव-स्थिते त्रिभुवन-धराधरे वामे ज्येष्ठे रौद्रि अम्बिके ब्राह्मी-माहेश्वरी-कौमारी-वैष्णवी-वाराहींद्राणी-ईशानी-महालक्ष्मीः इति स्थिते महोग्रविषमहाविषोरगफणामणि मुकुटरत्न महाज्वालामलमणिमहाहिहार बाहुकहोत्तमांग-नव-रत्न-निधि कोटि-तत्व-बाहु-जिह्वा-वाणी शब्द-स्पर्श-रूप-रस-गंधात्मिके क्षितिसाहस-मध्यस्थिते महोज्ज्वलमहाविषोपविष-गंधर्व-विद्या-धराधिपते ॐ ऐंकारा ॐ ह्रींकारा ॐ क्लींकारा हस्ते ॐ आँ ह्रीं क्रौं अनग्नेनग्नेपाते प्रवेशय प्रवेशय ॐ द्राँ द्रीं शोषय शोषय ॐ द्राँ द्रीं मोहय मोहय ॐ क्लाँ क्लीं दीपय दीपय ॐ ब्लूं ब्लूं संतापय संतापय ॐ सौं सौं उन्मादय उन्मादय ॐ म्लैं म्लैं मोहय मोहय ॐ खाँ खाँ शोधय शोधय ॐ द्याँ द्याँ उन्मादय उन्मादय ॐ ह्रीं ह्रीं आवेशय आवेशय ॐ स्त्रीं स्त्रीं उच्छादय उच्छादय ॐ स्त्रीं स्त्रीं आकर्षय आकर्षय ॐ हुँ हुँ आस्फोटय आस्फोटय ॐ त्रूँ त्रूँ त्रोटय त्रोटय ॐ छाँ छाँ छेदय छेदय ॐ कूँ कूँ उच्चाटय उच्चाटय ॐ हूँ हूँ हन हन ॐ ह्राँ ह्राँ मारय मारय ॐ घ्रीं घ्रीं घर्षय घर्षय ॐ स्वीं स्वीं विध्वंसय विध्वंसय ॐ प्लूँ प्लूँ प्लावय प्लावय ॐ भ्रां भ्रां भ्रामय भ्रामय ॐ ॐ म्रां म्रां दर्शय दर्शय ॐ दां दां दिशां बंधय बंधय ॐ दीं दीं वर्तिनामेकाग्रचित्ताविशिकुरुतेंगये ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ फ्राँ फ्रीं फ्रूं फ्रैं फ्रौं फ्रः ॐ चामुण्डायै विच्चे स्वाहा मम सकलमनोरथं देहि सर्वोपद्रवं निवारय निवारय अमुकं वशे कुरु केरु भूत-प्रेत-पिशाच-ब्रह्मपिशाच-ब्रह्मराक्षस-यक्ष यमदूत-शाकिनी-डाकिनी सर्वश्वापदतस्करादिकं नाशय नाशय मारय मारय भंजय भंजय ॐ ह्रीं श्रीं क्लीं स्वाहा”
☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️
3...🌷🌷तीव्रचण्डिकास्तोत्रम् 🌷🌷🌷🌷
अथवा श्रीमार्कण्डेयपुराणोक्त चण्डिकास्तोत्रम् ।
॥ ध्यानम् ॥
चामुण्डा प्रेतगा विकृता चाऽहि भूषणा
दंष्ट्रालि क्षीणदेहा च गर्ताक्षी कामरूपिणी ।
दिग्बाहुः क्षामकुक्षि मुशलं चक्रचामरे
अङ्कुशं विभ्रती खड्गं दक्श्ःइणे चाथ वामके ॥
खेटं पाशं धनुर्दण्डं कुठारं चापि बिभ्रती
या देवी खड्गहस्ता सकलजनपदव्यापिनी विश्वदुर्गा
श्यामाङ्गी शुक्लपाशा द्विजगणगणिता ब्रह्मदेहार्थवासा । var शुक्लनासा द्विजगणनमिता
ज्ञानानां साधयन्ती यतिगिरिगमनज्ञान दिव्य प्रबोधा var साधयित्री
सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ १॥
ॐ ह्रां ह्रीं ह्रूं चर्ममुण्डे शवगमनहते भीषणे भीमवक्त्रे
क्रां क्रीं क्रूं क्रोधमूर्तिर्भिः कृतस्तवमुखे रौद्रदंष्ट्राङ्कराले । var क्रोधमूर्ति विकृत कुचमुखे
कं कं कं कालरात्रिः भ्रमसि जगदिदं भक्षयन्ती ग्रसन्ती var कालधारी
हूङ्कारोच्चारयन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ २॥
ॐ ह्रां ह्रीं ह्रूं रुद्ररूपे त्रिभुवननमिते पाशहस्ते त्रिनीत्रे
रां रीं रूं रङ्गरङ्गे किलिकिलितरवे शूलहस्ते प्रचण्डे ।
लां लीं लूं लम्बजिह्वे हसति कहकहाशुद्ध घोराट्टहासैः
कं काली कालरात्रिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ३॥
ॐ घ्रां घ्रीं घ्रूं घोररूपे घघघघ घटितैर्घर्घुरारावघोरे
निर्मांसी शुष्कजङ्घे पिबतु नरवसा धूम्रधूम्रायमाने ।
ॐ द्रां द्रीं द्रूं द्रावयन्ती सकलभुवि तथा यक्षगन्धर्वनागैः var तले
क्षां क्षीं क्षूं क्षोभयन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ४॥
ॐ भ्रां भ्रीं भ्रूं चण्डवर्गे हरिहरनमिते रुद्रमूर्तिश्च कीर्तिः var ज्रां ज्रीं ज्रूं
चन्द्रादित्यौ च कर्णौ जडमकुटशिरोवेष्टितां केतुमाला ।
स्रक्सर्वौ चोरगेन्द्रौ शशिकिरणनिभा तारको हार कण्ठे
सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ५॥
ॐ खं खं खं गवस्ते वरकनकनिभे सूर्यकान्ति स्वतेजः var खड्गहस्ते
विद्युज्ज्वालावलीनां नवनिशितमहाकृत्तिका दक्षिणेन ।
वामे हस्ते कपालं वरविमलसुरापूरितं धारयन्ती
सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ६॥
ॐ हुं हुं हुं फट् कालरात्रिः उरु (रु रु) सुरमथिनी धूम्रमारी कुमारी
ह्रां ह्रीं ह्रूं हत्तिशोरौक्षपितिकिलिकिला शब्द अट्टाट्टहासे ।
हा हा भूत प्रभूते किलिकिलितमुखा कीलयन्ती ग्रसन्ती var प्रसूते
हूङ्कारोच्चारयन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ७॥
ॐ भृङ्गी कालीकपाली परिजनसहिते चण्डिचामुण्डनित्या
रों रों रोङ्कारनित्ये शशिकरधवले कालकूटे दुरन्ते ।
ह्रुं ह्रुं ह्रुङ्कारकारी सुरगणनमिते कालकारी विकारी
त्र्यैलोक्यं वश्यकारी प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ८॥
ॐ वन्दे दण्डप्रचण्डा डमरुमणिमारणष्टोपटङ्कारघण्टै
नृत्यन्ती याट्टपातैः रटपट विभवैर्निर्मला मन्त्रमाला । var हासैः
शुष्के कुक्षे वहन्ती खरखरितसखा चार्चिनी प्रेतमाला var शुष्कौ कुक्षौ
उच्चैशैत्याट्टहासैः घरुघरितरवा त्वं चण्डमुण्डा प्रचण्डा ॥ ९॥
ॐ त्वं ब्राह्मी त्वं च रौद्री त्वं सच शिकगमना त्वं च देवी कुमारी
त्वं चक्रे चक्रहस्ता घरुघरितरवा त्वं वराहस्वरूपा ।
रौद्रे त्वं चर्ममुण्डा सकलभुवितले संस्थिते सर्वमार्गे
पाताले शैलशृङ्गे हरिहरनमिते देवी चण्डी नमस्ते ॥ १०॥
नमस्ते नमस्ते नमः
ॐ रक्षत्वं मुङ्डधारी गिरिगुहविहरे निर्झरे पर्वते वा
सङ्ग्रामे शत्रुमध्ये विशविशभविते सङ्कटे कुत्सिते वा ।
व्याघ्रे चौरे च सर्वेप्युः दधिभुवितले तथा वह्निमध्ये दुर्गे
रक्षेत्वां दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ११॥
इत्येवं बीजमन्त्रैः स्तवनमति शिवं पातकं व्याधिनाशं
प्रत्यक्षं दिव्यरूपं ग्रहगणमथनं मर्दनं शाकिनीनाम् ।
इत्येवं वेगवेगं सकलभयहरं मन्त्रमूर्तिश्च नित्यं var मन्त्रशक्तिश्च
मन्त्राणां स्तोत्रकं यः पठति स लभतौ प्रार्थितां मन्त्रसिद्धिम् ॥ १२॥
ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै ।
॥ श्रीरागमालिकाकृते तीव्रचण्डिकास्तोत्रं सम्पूर्णम् ॥
॥ श्रीमार्कण्डेयपुराणोक्त चण्डिकास्तोत्रम् सम्पूर्णम् ॥
☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️
4...🌷🌷सप्तशतीसारभूतदुर्गास्तोत्रम् 🌷🌷🌷
श्रीगणेशाय नमः ॥
अथ ध्यानम् ।
यस्या दक्षिणभागके दशभुजा काली कराला स्थिता
यद्वामे च सरस्वती वसुभुजा भाति प्रसन्नानना ।
यत्पृष्ठे मिथुनत्रयं च पुरतो यस्या हरिः सैरिभ-
स्तामष्टादशबाहुमम्बुजगतां लक्ष्मीं स्मरेन्मध्यगाम् ॥ १॥
इति ध्यानम् ॥
लं पृथ्व्यात्मकमर्पयामि रुचिरं गन्धं हमभ्रात्मकं
पुष्पं यं मरुदात्मकं च सुरभिं धूपं विधूतागमम् ।
रं वह्न्यात्मकदपिकं वममृतात्मानं च नैवेद्यकं
मातर्मानसिकान्गृहाण रुचिरान्पञ्चोपचारानमून् ॥ १॥
इति मनसा सम्पूज्य पठेत् ।
कल्पान्ते भुजगाधिपं मुररिपावास्तीर्य निद्रामिते
सञ्जातौ मधुकैटभौ सुररिपू तत्कर्णपीयूषतः ।
दृष्ट्वा भीतिभरान्वितेन विधिना या संस्तुताऽघातयद्
वैकुण्ठेन विमोह्य तौ भगवती तामस्मि कालीं भजे ॥ १॥
या पूर्वं महिषासुरार्दितसुरोदन्तश्रुतिप्रोत्थित-
क्रोधव्याप्तशिवादिदैवतनुतो निर्गत्य तेजोमयी ।
देवप्राप्तसमस्तवेषरुचिरा सिंहेन साकं सुर-
द्वेष्टॄणां कदनं चकार नितरां तामस्मि लक्ष्मीं भजे ॥ २॥
सैन्यं नष्टमवेक्ष्य चिक्षुरमुखा योक्तुं ययुर्येऽथ तान्
हत्वा शृङ्गखुरास्यपुच्छवलनैस्त्रस्तत्त्रिलोकीजनम् ।
आक्रम्य प्रपदेन तं च महिषं शूलेन कण्ठेऽभिनद्-
या मद्यारुणनेत्रवक्त्रकमला तामस्मि लक्ष्मीं भजे ॥ ३॥
ब्रह्मा विष्णुमहेश्वरौ च गदितुं यस्याः प्रभावं बलं
नालं सा परिपालनाय जगतोऽस्माकं च कुर्यान्मतिम् ।
इत्थं शक्रमुखैः स्तुताऽमरगणैर्या संस्मृताऽऽपद्व्रजं
हन्ताऽस्मीति वरं ददावतिशुभं तामस्मि लक्ष्मीं भजे ॥ ४॥
भूयः शुम्भनिशुम्भपीडितसुरैः स्तोत्रं हिमाद्रौ कृतं
श्रुत्वा तत्र समागतेशरमणीदेहादभूत्कौशिकी ।
या नैजग्रहणेरिताय सुरजिद्दूताय सन्धारणे
यो जेता स पतिर्ममेत्यकथयत्तामस्मि वाणीं भजे ॥ ५॥
तद्दूतस्य वचो निशम्य कुपितः शुम्भोऽथ यं प्रेषयत्
केशाकर्षणविह्वलां बलयुतस्तामानयेति द्रुतम् ।
दैत्यं भस्म चकार धूम्रनयनं हुङ्कारमात्रेण या
तत्सैन्यं च जघान यन्मृगपतिस्तामस्मि वाणीं भजे ॥ ६॥
चण्डं मुण्डयुतं च सैन्यसहितं दृष्ट्वाऽऽगतं संयुगे
काल्या भैरवया ललाटफलकादुद्भूतयाघातयत् ।
तावादाय समागतेत्यथ च या तस्याः प्रसन्ना सती
चामुण्डेत्यभिधां व्यधात्त्रिभुवने तामस्मि वाणीं भजे ॥ ७॥
श्रुत्वा संयति चण्डमुण्डमरणं शुम्भो निशुम्भान्वितः
क्रुद्धस्तत्र समेत्य सैन्यसहितश्चक्रेऽद्भुतं संयुगम् ।
ब्रह्माण्यादियुता रणे बलपतिं या रक्तबीजासुरं
चामुण्डा परिपीतरक्तमवधीत्तामस्मि वाणीं भजे ॥ ८॥
दृष्ट्वा रक्तजनुर्वधं प्रकुपितौ शुम्भो निशुम्भोऽप्युभौ
चक्राते तुमुलं रणं प्रतिभयं नानास्त्रशस्त्रोत्करैः ।
तत्राद्यं विनिपात्य मूर्च्छितमलं छित्त्वा निशुम्भं शिरः
खड्गेनैनमपातयत्सपदि या तामस्मि वाणीं भजे ॥ ९॥
शुम्भं भ्रातृवधादतीव कुपितं दुर्गे त्वमन्याश्रयात्
गर्विष्ठा भव मेत्युदीर्य सहसा युध्यन्तमत्युत्कटम् ।
एकैवाऽस्मि न चापरेति वदती भित्त्वा च शूलेन या
वक्षस्येनमपातयद्भुवि बलात्तामस्मि वाणीं भजे ॥ १०॥
दैत्येऽस्मिन्निहतेऽनलप्रभृतिभिर्देवैः स्तुता प्रार्थिता
सर्वार्तिप्रशमाय सर्वजगतः स्वीयारिनाशाय च ।
बाधा दैत्यजनिर्भविष्यति यदा तत्रावतीर्य स्वयं
दैत्यान्नाशयितास्म्यहं वरमदात्तामस्मि वाणीं भजे ॥ ११॥
यश्चैतच्चरितत्रयं पठति ना तस्यैधते सन्तति-
र्धान्यं कीर्तिधनादिकं च विपदां सद्यश्च नाशो भवेत् ।
इत्युक्त्वान्तरधीयत स्वयमहो या पूजिता प्रत्यहं
वित्तं धर्ममतिं सुतांश्च ददते तामस्मि वाणीं भजे ॥ १२॥
इत्येतत्कथितं निशम्य चरितं देव्याः शुभं मेधसा-
राजासौ सुरथः समाधिरतुलं वैश्यश्च तेपे तपः ।
या तुष्टाऽत्र परत्र जन्मनि वरं राज्यं ददौ भूभृते
ज्ञानं चैव समाधये भगवतीं तामस्मि वाणीं भजे ॥ १३॥
दुर्गासप्तशतीत्रयोदशमिताध्यायार्थसङ्गर्भितं
दुर्गास्तोत्रमिदं पठिष्यति जनो यः कश्चिदत्यादरात् ।
तस्य श्रीरतुला मतिश्च विमला पुत्रः कुलालङ्कृतिः
श्रीदुर्गाचरणारविन्दकृपया स्यादत्र कः संशयः ॥ १४॥
वेदाभ्रावनिसम्मिता १०४ नवरसा ६९ वर्णाब्धितुल्याः ४४ कराम्नाया ४२
नन्दकरेन्दवो १२९ युगकराः २४ शैलद्वयो २७ ऽग्न्यङ्गकाः ६३
चन्द्राम्भोधिसमा ४१ भुजानलमिता ३२ बाणेषवो ५५ ऽब्जार्णवा ४१
नन्दद्वन्द्व २९ समा इतीह कथिता अध्यायमन्त्राः क्रमात् ॥ १५॥
श्रीमत्काशीकरोपाख्यरामकृष्णसुधीकृतम् ।
दुर्गास्तोत्रमिदं धीराः पश्यन्तु गतमत्सराः ॥ १६॥
इति श्रीकाशीकरोपनामक अनन्तभट्टपुत्ररामकृष्णभट्टविरचित
श्रीदुर्गासप्तशतीसारभूतदुर्गास्तोत्रं सम्पूर्णम् ।
☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️
.5..🌷🌷🌷🌷श्रीचण्डीपाठः 🌷🌷🌷🌷🌷
॥ ॐ श्री देवैः नमः ॥
॥ अथ चंडीपाठः ॥
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।
नमस्तस्यै १४ नमस्तस्यै १५ नमस्तस्यै नमो नमः ॥ ५-१६॥
या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।
नमस्तस्यै १७ नमस्तस्यै १८ नमस्तस्यै नमो नमः ॥ ५-१९॥
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।
नमस्तस्यै २० नमस्तस्यै २१ नमस्तस्यै नमो नमः ॥ ५-२२॥
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।
नमस्तस्यै २३ नमस्तस्यै २४ नमस्तस्यै नमो नमः ॥ ५-२५॥
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।
नमस्तस्यै २६ नमस्तस्यै २७ नमस्तस्यै नमो नमः ॥ ५-२८॥
या देवी सर्वभूतेषु च्छायारूपेण संस्थिता ।
नमस्तस्यै २९ नमस्तस्यै ३० नमस्तस्यै नमो नमः ॥ ५-३१॥
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ।
नमस्तस्यै ३२ नमस्तस्यै ३३ नमस्तस्यै नमो नमः ॥ ५-३४॥
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।
नमस्तस्यै ३५ नमस्तस्यै ३६ नमस्तस्यै नमो नमः ॥ ५-३७॥
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।
नमस्तस्यै ३८ नमस्तस्यै ३९ नमस्तस्यै नमो नमः ॥ ५-४०॥
या देवी सर्वभूतेषु जातिरूपेण संस्थिता ।
नमस्तस्यै ४१ नमस्तस्यै ४२ नमस्तस्यै नमो नमः ॥ ५-४३॥
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ।
नमस्तस्यै ४४ नमस्तस्यै ४५ नमस्तस्यै नमो नमः ॥ ५-४६॥
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।
नमस्तस्यै ४७ नमस्तस्यै ४८ नमस्तस्यै नमो नमः ॥ ५-४९॥
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ।
नमस्तस्यै ५० नमस्तस्यै ५१ नमस्तस्यै नमो नमः ॥ ५-५२॥
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ।
नमस्तस्यै ५३ नमस्तस्यै ५४ नमस्तस्यै नमो नमः ॥ ५-५५॥
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।
नमस्तस्यै ५६ नमस्तस्यै ५७ नमस्तस्यै नमो नमः ॥ ५-५८॥
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ।
नमस्तस्यै ५९ नमस्तस्यै ६० नमस्तस्यै नमो नमः ॥ ५-६१॥
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ।
नमस्तस्यै ६२ नमस्तस्यै ६३ नमस्तस्यै नमो नमः ॥ ५-६४॥
या देवी सर्वभूतेषु दयारूपेण संस्थिता ।
नमस्तस्यै ६५ नमस्तस्यै ६६ नमस्तस्यै नमो नमः ॥ ५-६७॥
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।
नमस्तस्यै ६८ नमस्तस्यै ६९ नमस्तस्यै नमो नमः ॥ ५-७०॥
या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै ७१ नमस्तस्यै ७२ नमस्तस्यै नमो नमः ॥ ५-७३॥
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ।
नमस्तस्यै ७४ नमस्तस्यै ७५ नमस्तस्यै नमो नमः ॥ ५-७६॥
इन्द्रियाणामधिष्ठात्री भुतानाञ्चाखिलेषु या ।
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ॥ ५-७७॥
चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् ।
नमस्तस्यै ७८ नमस्तस्यै ७९ नमस्तस्यै नमो नमः ॥ ५-८०॥
॥ इति चंडीपाठः ॥
☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️
6.....🌷🌷🌷🌷श्रीचण्डीरहस्यम् 🌷🌷🌷🌷🌷
यच्छक्तिलेशसकृदर्पणपात्रभाव-
मात्रादपि द्रुहिणशौरिमहेश्वराणाम् ।
प्राप्तो यदि श्रुतिशतैः परमात्मभाव-
स्तामम्ब देवि भवती किमिति स्तुवन्तु ॥ १॥
कृत्वा मुखं पशुपतिर्भवती किलैकां
निर्माति पालयति हन्ति जगन्ति देवः ।
तज्जामिताविपरिवृत्तिकृते तमेव
शम्भुं मुखं कृतवती भवतीति मन्ये ॥ २॥
विश्वं नियच्छति विशृङ्खलचेष्टितो यः
सोऽपि त्वया नियमनीय इति स्फुटं नः ।
वैवस्वतं चिकुरभावजुषं यदम्ब
बध्नासि वेणिकबरीग्रथनादिभेदैः ॥ ३॥
भ्रूकिङ्कराणि भुवनानि तव भ्रुवौ च
सन्ध्यात्मिके इति गृणन्ति यतोऽत एव ।
कर्माणि मातरितराणि करोतु मा वा
सन्ध्यां पुनर्भजत एव समस्तलोकः ॥ ४॥
जाता दृशो जननि पावकतेजसैव
तिस्रस्तवेत्यपि किमागमबोध्यमेतत् ।
पापान्यपाङ्गवलनैः परिमार्जतीनां
तासां च पावकपदे विचिकित्सते कः ॥ ५॥
मूल्यं न यस्य भुवनानि चतुर्दशापि
मुक्ताफलं वहति तत्तव नासिकेति ।
चित्रीयते किमपि चेतसि मे न मातः
किं राजराजपदवीं भजतामलभ्यम् ॥ ६॥
नासाधिकारमिह गन्धवहात्मकत्वं
देवि श्रुती स्वयमपाहरतां भवत्याः ।
सर्वाः श्रुतीरपि तु सा स्ववशे चकार
किं दुर्लभं त्रिषु जगत्सु धनेश्वराणाम् ॥ ७॥
प्राञ्चो जगज्जननि ये पतयः प्रजानां
ते देवि संववृतिरे दशनात्मना ते ।
नो चेत्तदन्तिकतले रसनाग्रभागे
किं भारती वसति किङ्करतां गतेव ॥ ८॥
स्वेनात्मना मुररिपुर्दनुजैर्विगृह्य
वारान् कतीह न बभार पराङ्मुखत्वम् ।
ओजायितुं स निरपायमुपायवेदी
बाह्यात्मना परिणतो नियतं भवत्याः ॥ ९॥
वर्षन् करो महिषमर्दनि ते वसूनि
प्रस्तूयतां कविजनैर्न ममाद्भुतं तत् ।
आसादिता वसुभिरङ्गुलिता यदीया
कस्तस्य शंस वसुवर्षविधौ प्रयासः ॥ १०॥
सोमेऽमृतं कतिचिदेव पुरा लभन्ते
तल्लभ्यमस्तु जगतामिति तर्कयन्त्या ।
नीतः पयोधरदशां स शिवे त्वया य-
दस्मादृशामयमतर्कितभाग्ययोगः ॥ ११॥
ब्रह्मर्षिशापभवया त्रपया महत्या
प्रागास्त यः क्वचन देवि सरस्यदृश्यः ।
नूनं स एष विबुधाधिपतिर्भवत्याः
प्राप्तो वलग्नपदवीमधुनाप्यदृश्यः ॥ १२॥
पादौ बभूव तव पद्मभवस्ततः किं
बाह्यात्मना परिणनाम हरिस्ततः किम् ।
सिद्धा नितम्बविधया वसुधा यदा ते
सिद्धस्तदा पुरहरस्य मनोरथोऽयम् ॥ १३॥
यद्वारुणं कथितमूरुयुगं सजङ्घ-
मिन्दीवरच्छदसकान्ति न वारुणं तत् ।
प्राचेतसं तदिह वर्णयितुं क्षमेत
प्राचेतसं कविकुलप्रथमं विना कः ॥ १४॥
वक्त्रैरकृत्रिमवचांसि वहन् विषण्णो
वेधाश्चिरं विपरिणम्य पदात्मना ते ।
सन्धार्यतेऽद्य शिरसा सकलैरमीभिः
क्लिष्टश्चिरात् किमुपयातु न जातु हर्षम् ॥ १५॥
बाह्यं तमो हरति यस्तपनः कथञ्चि-
त्पादौ तवाङ्गुलितयाम्ब भजन् स एव ।
अन्तस्तमांसि च हरत्यतिदुर्हराणि
किं सेन्यसेवनविधिर्न करोति पुंसाम् ॥ १६॥
देवेषु वासवमुखेषु निजां निधाय
शक्तिं यदम्ब समये पुनरग्रहीस्त्वम् ।
कर्पूरभाजननयादधुनापि ते ते
कीर्तिं वहन्ति कियतीमपि तावतैव ॥ १७॥
तेजांसि च प्रहरणानि च यानि यानि
देवेषु देवि निहितानि पुरा भवत्या ।
तान्येव निष्फलतराणि तदाश्रितानि
त्वत्स्वीकृतानि फलवन्ति बभूवुरित्थम् ॥ १८॥
शत्त्या यया दिविचरा अतिशेरतेऽस्मान्
सा च त्वमित्यवगतः सकलैश्च तन्त्रैः ।
किं त्वं विचारकुशलैरसि सेवनीया
किं देवतास्तव ऋजीषदशां प्रपन्नाः ॥ १९॥
इन्द्रं यजन्तु तव गर्भमुपासते ते
वह्निं यजन्तु नयने तव तर्पयन्ति ।
भानुं नमन्तु विनमन्ति पदाम्बुजं ते
सर्वं जगन्ननु समर्चति सर्वथा त्वाम् ॥ २०॥
केचित् प्रतीकमितरे तु समग्ररूप-
माराधयन्ति तव ये पुनरास्तिकाः स्युः ।
नास्तिक्यवादनिरता नरके पतन्तो-
ऽप्यम्ब स्तुवन्ति चिकुरात्मकमन्तकेन ॥ २१॥
शौरिं विबोध्य समराय तमुद्यमय्य
व्यामोह्य दानववरौ कृतसंविधाना ।
मातस्त्वमेव मधुकैटभयोर्निहन्त्री
शार्ङ्गी कृते भवति शस्त्रपदाभिषिक्तः ॥ २२॥
दैत्यौ वरं वितरतो निजनाशरूपं
दैत्यारये त्रिजगतां वरदो वरार्थी ।
इत्थं प्रचोदितधियां क्षममीश्वरत्वं
वृत्तेषु किं न सचिवोऽपि नृपं नियुङ्क्ते ॥ २३॥
न्यस्तं यदा शिरसि पादतलं भवत्या
लब्धं तदैव महिषेण परं पदं ते ।
हन्तुं पुनर्यदिदमाददिषे त्रिशूलं
तत्ते जगज्जननि सङ्गरसम्भ्रमेण ॥ २४॥
कस्त्वां रणे जयतु कस्तव हन्तु दर्पं
को वास्तु ते प्रतिभटो भविता पतिः कः ।
दैत्यं प्रतारयितुमेव कृतोऽभ्युपायो
देवं न विस्मृतवती भवती महेशम् ॥ २५॥
चण्डि द्विषस्तव निपेतुरपेतकृत्या-
श्चण्डाट्टहासनिनदैरिति नाद्भुतं नः ।
दृष्टक्रियस्त्रिषु पुरेषु तवाप्रसिद्धो
मन्दस्मितार्धमहिमा न हि मादृशानाम् ॥ २६॥
कर्माणि यानि दश ते जनभीषणानि
कल्याणदानि भजतामभिजानतां वा ।
तैरेव विश्वमखिलं परिवृत्तिभेदै-
र्बध्नासि मुञ्चसि च कुञ्चिकयेव यन्त्रम् ॥ २७॥
अन्वासितं हरिहरद्रुहिणैः सदारै-
र्जामातृभिस्तनुभवैर्दुहितुः सुतैश्च ।
अग्रोपवेशितजगज्जननीसमाज-
माराधये जननि रूपमनुत्तरं ते ॥ २८॥
सर्वानुकम्पनपरं स्वकृतोपदेशैः
सार्वज्ञगर्वशमनं तरुणेन्दुमौलेः ।
सत्त्वैकसारमकृतोक्तिपथानुसारं
सारस्वतं वपुरिदं तव चिन्तयामः ॥ २९॥
नन्दात्मजेति ननु वर्षसि हेमराशिं
शाकम्भरीति शमयस्युदरोपसर्गान् ।
योगीश्वरीति परिहृत्य भयानि भक्तान्
मातेव पाययसि कामदुघौ स्तनौ ते ॥ ३०॥
इच्छात्मिका पुरहरस्य चिदात्मिका च
शक्तिस्त्रिलोकविदिते न हि तत्र शङ्का ।
ते चार्चिते जनयतः किल यत्प्रसादं
तामाश्रये भगवतः कृतिशक्तिमाम्बाम् ॥ ३१॥
त्वं चेतनासि हृदयं त्वमसि प्रजानां
त्वं वृत्तयो धृतिमतिप्रमुखास्तदीयाः ।
कैः साधनैरभिमुखीकरणं तव स्यात्
स्वेनैव देवि दयसे यदि तद्दयेथाः ॥ ३२॥
त्वत्पूजनं यदिह जानदजानदर्हं
मातश्चकर्थ महती किल चातुरीयम् ।
जानद्भिरेव भवती यदि पूजनीया
लुप्येत पूजनकथैव जगत्त्रये ते ॥ ३३॥
यावत्परत्वमखिलागमबोधितं ते
तावत्ततः शतगुणं च सुखाश्रयासि ।
वेदास्त्वदर्चनविधानपरा हि नो चे-
दम्ब स्युरब्धितरणोक्तिवदप्रमाणम् ॥ ३४॥
प्राज्ञानभिज्ञसुलभां परिपूर्णशक्ति-
मव्याजभूतकरुणापरिणामरूपाम् ।
अम्बां मनागपि मनस्यवलम्बमाना
धीरा न बिभ्यति कथञ्चिदितोऽमुतो वा ॥ ३५॥
अभ्यर्थनीयमखिलं भवदाश्रिताना-
मभ्यर्थितं प्रथममेव हि देवसङ्घैः ।
अम्ब स्मरन्सफलयाम्यवशिष्टमायु-
रङ्गानि ते भुवनमङ्गलमङ्गलानि ॥ ३६॥
इति श्रीनीलकण्ठदीक्षितविरचितं चण्डीरहस्यं सम्पूर्णम् ॥
☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️
7...🌷🌷🌷🌷 नवार्ण मालामंत्र 🌷🌷🌷🌷
ॐ ऐं ह्रीं क्लीं महादुर्गे नवाक्षरी नवदुर्गे नवात्मिके नवचन्डि महामाये महामोहे महायोगनिंद्रे जय मधुकैटभ विद्राविणी महिषासुरमर्दिनी धूम्रलोचनसंहंत्री चन्डमुन्डविनाशिनी रक्तबीजांतके निशुम्भ ध्वंसिनी शुम्भ
दर्पघ्नी देवी अष्टादशबाहुके कपाल खटवांग शूल खड्ग खेटक धारिणी छिन्नमस्तक धारिणी रुधिरमांंस भोजिनी
समस्त भूतप्रेतादिकयोग ध्वंसिनी ब्रहमेन्द्रादिक स्तुते ।
देवी माम् रक्ष रक्ष मम शत्रुन् नाशय नाशय ह्रीं फट् ह्रूं फट्
ऐं ह्रीं क्लीं चामुण्डायै विच्चै नमः।
टिप्पणियाँ
एक टिप्पणी भेजें