वश्यवाराही स्तोत्रम्

वश्यवाराही स्तोत्रम्   :----
ॐ श्री 
अस्य श्री सर्व वशीकरण स्तोत्र मन्त्रस्य नारद ऋषिः अनुष्टुप्
छन्दः श्री वश्यवाराही देवता ऐं बीजं क्लीं शक्तिः ग्लौं कीलकं मम
सर्ववश्यार्थे जपे विनियोगः ।

नारद ऋषये नमः शिरसि ।
अनुष्ठप् छन्दसे नमः मुखे ।
वश्यवाराही देवतायै नमः ह्रदि ।
ऐं बीजाय नमः गुह्ये ।
क्लीं शक्तये नमः पादयोः ।
ग्लों कीलकाय नमः सर्वाङ्गे ।
हृदयादिन्यासः ।                                            करन्यासः
ॐ ऐं सर्ववश्य वाराह्यै नमः । अङ्गुष्ठाभ्यां नम्ः । हृदये नमः ।
ॐ क्लीं सर्ववश्य वाराह्यै नमः । तर्जनीभ्यां नम्ः । शिरसे स्वाहा ।
ॐ ग्लौं सर्ववश्य वाराह्यै नमः । मध्यमाभ्यां नम्ः । शिखायै वषट् ।
ॐ सर्ववश्य अश्वारूढे नमः । अनामिकाभ्यां नम्ः । कवचाय हुं ।
ॐ क्लीं सर्ववश्यवाराह्यै नमः ।
                    कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् ।
ॐ ग्लौं ममसर्ववशङ्करि कुरु कुरु ठः ठः  नमः ।
                    करतलकरपृष्ठाभ्यां । अस्त्राय फट् ।

ध्यानम् -
तारे तारिणि देवि विश्वजननि प्रौढप्रतापान्विते ।
तारे दिक्षु विपक्ष यक्ष दलिनि वाचा चला वारूणी ॥

लक्ष्मीकारिणि कीर्तिधारिणि महा सौभाग्य सन्दायिनि ।
रूपं देहि यशश्च सततं वश्यं जगत्यावृतम् ॥

मन्त्रः -- ॐ ऐं क्लीं ग्लौं अश्वारूढे सर्ववश्य वाराह्यै
मम सर्ववशङ्करि कुरु कुरु ठः ठः ॥

मानसोपचारैः सम्पूज्य

अथ स्तोत्रम् -
अश्वारूढे रक्तवर्णे स्मितसौम्यमुखाम्बुजे ।
राज्यस्त्री सर्वजन्तूनां वशीकरणनायिके ॥ १॥

वशीकरण कार्यार्थ पुरा देवेन निर्मितम् ।
तस्माद् वश्यवाराही सर्वान्मे वशमानय ॥ २॥

यथा राजा महाज्ञानं वस्त्रं धान्यं महावसु ।
मह्यं ददाति वाराहि यथात्वं वशमानय ॥ ३॥

अन्तर्बहिश्च मनसि व्यापारेषु सभाषु च ।
यथा मामेवं स्मरति तथा वश्यं वशं कुरु ॥ ४॥

चामरं दोलिकां छत्रं राज चिह्नानि यच्छति ।
अभीष्ठं संप्रदोराज्यं यथा देवि वशं कुरु ॥ ५॥

मन्मथस्मरणाद्रामा रतिर्यातु मयासह ।
स्त्री रत्नेषु महत्प्रेम तथा जनयकामदे ॥ ६॥

मृग पक्ष्यादयाः सर्वे मां दृष्ट्वा प्रेममोहिताः ।
अनुगच्छति मामेव त्वत्पसादाद्दयां कुरु ॥ ७॥

वशीकरण कार्यार्थ यत्र यत्र प्रयुञ्जति ।
सम्मोहनार्थ वर्द्धित्वात्तत्कार्य तत्र कर्षय ॥ ८॥

वशमस्तीति चैवात्र वश्य कार्येषु दृश्यते ।
तथा मां कुरु वाराही वश्य कार्यप्रदर्शय ॥ ९॥

वशीकरण बाणास्त्रं भक्त्यापद्धिनिवारणम् ।
तस्मात् वश्यवाराही जगत्सर्व वशं कुरु ॥ १०॥

वश्यस्तोत्रमिदं देव्या त्रिसन्ध्यं यः पठेन्नर ।
अभीष्टं प्राप्नुयाद् भक्तो रमां राज्यं यथापिवः ॥ ११॥

इति अथर्वशिखायां वश्यवाराही स्तोत्रं सम्पूर्णम् ।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

NAAG GAYATRI MANTRA नाग गायत्री मंत्र ,सर्प सूक्त, राहु-केतु से परेशान हों तो क्या करें

वेदमंत्रों के उच्चारण-प्रकार

माता ज्वालामुखी के मंत्र