श्री सूर्याष्टकम्
अथ श्री सूर्याष्टकम्
आदि देव नमस्तुभ्यं प्रसीद मम भास्करः ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ॥ १ ॥
सप्ताश्वरथ मारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेत पद्म धरं देवं तं सूर्यं प्रणमाम्यहम् ॥ २ ॥
लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ३ ॥
लैगुण्यं च महाशूरं ब्रह्मा विष्णु महेश्वरम् ।
महापाप हरं देवं तं सूर्य प्रणमाम्यहम् ॥ ४ ॥
वृंहितं तेजः पुञ्जच वायुराकाश मेव च।
प्रभु सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥ ५
बन्धूक पुष्प संकाशं हार कुण्डल भूषितम् ।
एक चक्र धरं देवं तं सूर्य प्रणमाम्यहम् ॥ ६ ॥
तं सूर्य जगत् कर्तारं महातेजः प्रदीपनम् ।
महापाप हरं देवं तं सूर्य प्रणमाम्यहम् ॥ ७ ॥
तं सूर्य जगतां नाथं ज्ञान विज्ञान मोक्षदम् ।
महापाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ८ ॥
सूर्याष्टकं पठेन्नित्यं ग्रहपीड़ाप्रणाशनम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् ॥ ९ ॥
आमिषं धनु पानं च यः करोतिरवेर्दिने ।
सप्त जन्म भवेद्रोगी जन्म जन्म दरिद्रता ॥ १० ॥
स्त्री तैल मधुमांसानित्यस्त्यजेत्तु रवेर्दिने।
न व्याधिः शोक दारिद्रयं सूर्यलोकं सगच्छति ॥ ११ ॥
॥ इति श्री शिव प्रोक्तं सूर्याष्टकं ॥
प्रतिदिन भगवान सूर्य को अर्घ्य देने के बाद नियमित रूप से एक या 3 पाठ करना चाहिए।
कुण्डली अध्ययन के लिए संपर्क करे
श्री संत ज्योतिष ज्ञान पीठ
पंडित प्रियेश मौद्गिल
Mobile No. +91 9996391452

टिप्पणियाँ
एक टिप्पणी भेजें